समयसार - आत्मख्याति टीका -गाथा 107 - 108
From जैनकोष
उप्पादेदि करेदि य बंधदि परिणामएदि गिण्हदि य ।
आदा पोग्गलदव्वं ववहारणयस्स वत्तव्वं ॥१०७॥
जह राया ववहारा दोसगुणुप्पादगो त्ति आलविदो ।
तह जीवो ववहारा दव्वगुणुप्पादगो भणिदो ॥१०८॥
उत्पादयति करोति च बध्नाति परिणामयति गृह्णाति च ।
आत्मा पुद्गलद्रव्यं व्यवहारनयस्य वक्तव्यम् ॥१०७॥
यथा राजा व्यवहारात् दोषगुणोत्पादक इत्यालपित: ।
तथा जीवो व्यवहारात् द्रव्यगुणोत्पादको भणित: ॥१०८॥
अयं खल्वात्मा न गृह्णाति न परिणमयति नोत्पादयति न करोति न बध्नाति व्याप्यव्यापकभावा-भावात् प्राप्यं विकार्यं निर्वर्त्यं च पुद्गलद्रव्यात्मकं कर्म । यत्तु व्याप्यव्यापकभावाभावेऽपि प्राप्यं विकार्यं निर्वर्त्यं च पुद्गलद्रव्यात्मकं कर्म गृह्णाति परिणमयति उत्पादयति करोति बध्नाति चात्मेति विकल्प: स किलोपचार: ।
कथमिति चेत् यथा लोकस्य व्याप्यव्यापकभावेन स्वभावत एवोत्पद्यमानेषु गुण-
दोषेषु व्याप्यव्यापकभावाभावेऽपि तदुत्पादको राजेत्युपचार:, तथा पुद्गलद्रव्यस्य व्याप्यव्यापक-भावेन स्वभावत एवोत्पद्यमानेषु गुणदोषेषु व्याप्यव्यापकभावाभावेऽपि तदुत्पादको जीव इत्युपचार: ॥१०७-१०८ ॥