समयसार - आत्मख्याति टीका - गाथा 109 - 112
From जैनकोष
सामण्णपच्चया खलु चउरो भण्णंति बंधकत्तरो ।
मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ॥१०९॥
तेसिं पुणो वि य इमो भणिदो भेदो दु तेरसवियप्पो ।
मिच्छादिट्ठी आदी जाव सजोगिस्स चरमंतं ॥११०॥
एदे अचेदणा खलु पोग्गलकम्मुदयसंभवा जम्हा ।
ते जदि करेंति कम्मं ण वि तेसिं वेदगो आदा ॥१११॥
गुणसण्णिदा दु एदे कम्मं कुव्वंति पच्चया जम्हा ।
तम्हा जीवोऽकत्त गुणा य कुव्वंति कम्माणि ॥११२॥
सामान्यप्रत्यया: खलु चत्वारो भण्यन्ते बन्धकर्तार: ।
मिथ्यात्वमविरमणं कषाययोगौ च बोद्धव्या: ॥१०९॥
तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्प: ।
मिथ्यादृष्टय्यादि: यावत् सयोगिनश्चरमान्त: ॥११०॥
एते अचेतना: खलु पुद्गलकर्मोदयसम्भवा यस्मात् ।
ते यदि कुर्वन्ति कर्म नापि तेषां वेदक आत्मा ॥१११॥
गुणसञ्ज्ञितास्तु एते कर्म कुर्वन्ति प्रत्यया यस्मात् ।
तस्माज्जीवोऽकर्ता गुणाश्च कुर्वन्ति कर्माणि ॥११२॥
पुद्गलकर्मण: किल पुद्गलद्रव्यमेवैकं कर्तृ तद्विशेषा: मिथ्यात्वाविरतिकषाययोगा बन्धस्य सामान्यहेतुतया चत्वार: कर्तार:, ते एव विकल्प्यमाना मिथ्यादृष्टय्यादिसयोगकेवल्यन्तास्त्रयोदश
कर्तार: । अथैते पुद्गलकर्मविपाकविकल्पत्वादत्यन्तमचेतना: सन्तस्त्रयोदश कर्तार: केवला एव यदि व्याप्यव्यापकभावेन किञ्चनापि पुद्गलकर्म कुर्युस्तदा कुर्युरेव, किं जीवस्यात्रापतितम् ?
अथायं तर्क: पुद्गलमयमिथ्यात्वादीन् वेदयमानो जीव: स्वयमेव मिथ्यादृष्टिर्भूत्वा पुद्गल-कर्म करोति । स किलाविवेक:, यतो न खल्वात्मा भाव्यभावकभावाभावात् पुद्गलद्रव्यमय-मिथ्यात्वादिवेदकोऽपि, कथं पुन: पुद्गलकर्मण: कर्ता नाम ?
अथैतदायातम् यत: पुद्गलद्रव्यमयानां चतुर्णां सामान्यप्रत्ययानां विकल्पास्त्रयोदश विशेष-प्रत्यया गुणशब्दवाच्या: केवला एव कुर्वन्ति कर्माणि, तत: पुद्गलकर्मणामकर्ता जीवो गुणाएव तत्कर्तार: । ते तु पुद्गलद्रव्यमेव । तत: स्थितं पुद्गलकर्मण: पुद्गलद्रव्यमेवैकं कर्तृ ॥१०९-११२ ॥