समयसार - आत्मख्याति टीका - गाथा 113 - 115
From जैनकोष
जह जीवस्स अणण्णुवओगो कोहो वि तह जदि अणण्णो ।
जीवस्साजीवस्स य एवमणण्णत्तमावण्णं ॥११३॥
एवमिह जो दु जीवो सो चेव दु णियमदो तहाऽजीवो ।
अयमेयत्ते दोसो पच्चयणोकम्मकम्माणं ॥११४॥
अह दे अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा ।
जह कोहो तह पच्चय कम्मं णोकम्ममवि अण्णं ॥११५॥
यथा जीवस्यानन्य उपयोग: क्रोधोऽपि तथा यद्यनन्य: ।
जीवस्याजीवस्य चैवमनन्यत्वमापन्नम् ॥११३॥
एवमिह यस्तु जीव: स चैव तु नियमतस्तथाऽजीव: ।
अयमेकत्वे दोष: प्रत्ययनोकर्मकर्मणाम् ॥११४॥
अथ ते अन्य: क्रोधोऽन्य: उपयोगात्मको भवति चेतयिता ।
यथा क्रोधस्तथा प्रत्यया: कर्म नोकर्माप्यन्यत् ॥११५॥
यदि यथा जीवस्य तन्मयत्वाज्जीवादनन्य उपयोगस्तथा जड: क्रोधोऽप्यनन्य एवेति प्रतिपत्ति-स्तदा चिद्रूपजडयोरनन्यत्वाज्जीवस्योपयोगमयत्ववज्जडक्रोधमयत्वापत्ति: । तथा सति तु य एव जीव: स एवाजीव इति द्रव्यान्तरलुप्ति: ।
एवं प्रत्ययनोकर्मकर्मणामपि जीवादनन्यत्वप्रतिपत्तवयमेव दोष: । अथैतद्दोषभयादन्य एवोपयोगात्मा जीवोऽन्य एव जडस्वभाव: क्रोध: इत्यभ्युपगम: तर्हि यथोपयोगात्मनो जीवादन्यो जडस्वभाव: क्रोध: तथा प्रत्ययनोकर्मकर्माण्यप्यन्यान्येव जडस्वभावत्वाविशेषात् ।
नास्ति जीवप्रत्यययोरेकत्वम् ॥११३-११५ ॥