समयसार - आत्मख्याति टीका - गाथा 87 - 88
From जैनकोष
मिच्छत्तं पुण दुविहं जीवमजीवं तहेव अण्णाणं ।
अविरदि जोगो मोहो कोहादीया इमे भावा ॥८७॥
पोग्गलकम्मं मिच्छं जोगो अविरदि अणाणमज्जीवं ।
उवओगो अण्णाणं अविरदि मिच्छं च जीवो दु ॥८८॥
मिथ्यात्वं पुनर्द्विविधं जीवोऽजीवस्तथैवाज्ञानम् ।
अविरतिर्योगो मोह: क्रोधाद्या इमे भावा: ॥८७॥
पुद्गलकर्म मिथ्यात्वं योगोऽविरतिरज्ञानमजीव: ।
उपयोगोऽज्ञानमविरतिर्मिथ्यात्वं च जीवस्तु ॥८८॥
मिथ्यादर्शनमज्ञानमविरतिरित्यादयो हि भावा: ते तु प्रत्येकं मयूरमुकुरन्दवज्जीवाजीवाभ्यां भाव्य-मानत्वाज्जीवाजीवौ ।
तथाहि यथा नीलहरितपीतादयो भावा: स्वद्रव्यस्वभावत्वेन मयूरेण भाव्यमाना: मयूर एव, यथा च नीलहरितपीतादयो भावा: स्वच्छताविकारमात्रेण मुकुरन्देन भाव्यमाना मुकुरन्द एव ।
तथा मिथ्यादर्शनमज्ञानमविरतिरित्यादयो भावा: स्वद्रव्यस्वभावत्वेनाजीवेन भाव्यमाना अजीव एव, तथैव च मिथ्यादर्शनमज्ञानमविरतिरित्यादयो भावाश्चैतन्यविकारमात्रेण जीवेन भाव्यमाना जीव एव ।
काविह जीवाजीवाविति चेत् य: खलु मिथ्यादर्शनमज्ञानमविरतिरित्यादिरजीवस्तद-मूर्ताच्चैतन्यपरिणामादन्यत् मूर्तं पुद्गलकर्म, यस्तु मिथ्यादर्शनमज्ञानमविरतिरित्यादि: जीव: स मूर्तात्पुद्गलकर्मणोऽन्यश्चैतन्यपरिणामस्य विकार: ॥८७-८८ ॥