समयसार - आत्मख्याति टीका - गाथा 89
From जैनकोष
मिथ्यादर्शनादिश्चैतन्यपरिणामस्य विकार: कुत इति चेत्
उवओगस्स अणाई परिणामा तिण्णि मोहजुत्तस्स ।
मिच्छत्तं अण्णाणं अविरदिभावो य णादव्वो ॥८९॥
उपयोगस्यानादय: परिणामास्त्रयो मोहयुक्तस्य ।
मिथ्यात्वमज्ञानमविरतिभावश्च ज्ञातव्य: ॥८९॥
उपयोगस्य हि स्वरसत एव समस्तवस्तुस्वभावभूतस्वरूपपरिणामसमर्थत्वे सत्यनादिवस्त्वन्तर-भूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविध: परिणामविकार: ।
स तु तस्य स्फटिकस्वच्छताया इव परतोऽपि प्रभवन् दृष्ट: । यथा हि स्फटिकस्वच्छताया:स्वरूप -परिणामसमर्थत्वे सति कदाचिन्नीलहरितपीततमालकदलीकाञ्चनपात्रोपाश्रययुक्तत्वान्नीलो हरित: पीत इति त्रिविध: परिणामविकारो दृष्ट:; तथोपयोगस्यानादिमिथ्यादर्शनाज्ञानाविरतिस्वभाव-वस्त्वन्तरभूतमोहयुक्तत्वान्मिथ्यादर्शनमज्ञानमविरतिरिति त्रिविध: परिणामविकारो: दृष्टव्य: ॥८९॥