समयसार - आत्मख्याति टीका - गाथा 94 - 95
From जैनकोष
तिविहो एसुवओगो अप्पवियप्पं करेदि कोहोऽहं ।
कत्त तस्सुवओगस्स होदि सो अत्तभावस्स ॥९४ ॥
तिविहो एसुवओगो अप्पवियप्पं करेदि धम्मादी ।
कत्त तस्सुवओगस्स होदि सो अत्तभावस्स ॥९५॥
त्रिविध एष उपयोग आत्मविकल्पं करोति क्रोधोऽहम् ।
कर्ता तस्योपयोगस्य भवति स आत्मभावस्य ॥९४॥
त्रिविध एष उपयोग आत्मविकल्पं करोति धर्मादिकम् ।
कर्ता तस्योपयोगस्य भवति स आत्मभावस्य ॥९५॥
एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविध: सविकारश्चैतन्यपरिणाम: परात्मनोरविशेषदर्शनेनाविशेषज्ञानेनाविशेषरत्या च समस्तं भेदमपह्नुत्य भाव्यभावकभावापन्नयोश्-चेतनाचेतनयो: सामान्याधिकरण्येनानुभवनात्क्रोधोऽहमित्यात्मनो विकल्पमुत्पादयति, ततोऽय-मात्मा क्रोधोऽहमिति भ्रान्त्या सविकारेण चैतन्यपरिणामेन परिणमन् तस्य सविकारचैतन्यपरिणाम-रूपस्यात्मभावस्य कर्ता स्यात् ।
एवमेव च क्रोधपदपरिवर्तनेन मानमायालोभमोहरागद्वेषकर्मनोकर्ममनोवचनकायश्रोत्रचक्षु-र्घ्राणरसनस्पर्शनसूत्राणि षोडश व्याख्येयान्यनया दिशान्यान्यप्यूह्यानि ।
एष खलु सामान्येनाज्ञानरूपो मिथ्यादर्शनाज्ञानाविरतिरूपस्त्रिविध: सविकारश्चैतन्यपरिणाम: परस्परमविशेषदर्शनेनाविशेषज्ञानेनाविशेषरत्या च समस्तं भेदमपह्नुत्य ज्ञेयज्ञायकभावापन्नयो: परात्मनो: समानाधिकरण्येनानुभवनाद्धर्मोऽहमधर्मोऽहमाकाशमहं कालोऽहं पुद्गलोऽहं जीवान्तर-महमित्यात्मनो विकल्पमुत्पादयति; ततोऽयमात्मा धर्मोऽहमधर्मोऽहमाकाशमहं कालोऽहं जीवान्त-रमहमिति भ्रान्त्या सोपाधिना चैतन्यपरिणामेन परिणमन् तस्य सोपाधिचैतन्यपरिणामरूप-स्यात्मभावस्य कर्ता स्यात् ॥९४-९५ ॥