समयसार - आत्मख्याति टीका - गाथा 92 - 93
From जैनकोष
परमप्पाणं कुव्वं अप्पाणं पि य परं करिंतो सो ।
अण्णाणमओ जीवो कम्माणं कारगो होदि ॥९२॥
परमप्पाणमकुव्वं अप्पाणं पि य परं अकुव्वंतो ।
सो णाणमओ जीवो कम्माणमकारगो होदि ॥९३॥
परमात्मानं कुर्वन्नात्मानमपि च परं कुर्वन् स: ।
अज्ञानमयो जीव: कर्मणां कारको भवति ॥९२॥
परमात्मानमकुर्वन्नात्मानमपि च परमकुर्वन् ।
स ज्ञानमयो जीव: कर्मणामकारको भवति ॥९३॥
अयं किलाज्ञानेनात्मा परात्मनो: परस्परविशेषानिर्ज्ञाने सति परमात्मानं कुर्वन्नात्मानं च परं कुर्वन्स्वयमज्ञानमयीभूत: कर्मणां कर्ता प्रतिभाति ।
तथाहि तथाविधानुभवसम्पादनसमर्थाया: रागद्वेषसुखदु:खादिरूपाया: पुद्गलपरिणामा-वस्थाया: शीतोष्णानुभवसम्पादनसमर्थाया: शीतोष्णाया: पुद्गलपरिणामावस्थाया इव पुद्गलाद- भिन्नत्वेनात्मनो नित्यमेवात्यन्तभिन्नायास्तन्निमित्त तथाविधानुभवस्य चात्मनोऽभिन्नत्वेन पुद्गला-न्नित्यमेवात्यन्तभिन्नस्याज्ञानात्परस्परविशेषानिर्ज्ञाने सत्येकत्वाध्यासात् शीतोष्णरूपेणेवात्मना परिणमितुमशक्येन रागद्वेषसुखदु:खादिरूपेणाज्ञानात्मना परिणममानो ज्ञानस्याज्ञानत्वं प्रकटीकुर्वन्स्वयमज्ञानमयीभूत एषोऽहं रज्ये इत्यादिविधिना रागादे: कर्मण: कर्ता प्रतिभाति ।
अयं किल ज्ञानादात्मा परात्मनो: परस्परविशेषनिर्ज्ञाने सति परमात्मानमकुर्वन्नात्मानं च परम-कुर्वन्स्वयं ज्ञानमयीभूत: कर्मणामकर्ता प्रतिभाति ।
तथाहि तथाविधानुभवसम्पादनसमर्थाया:रागद्वेषसुखदु:खादिरूपाया: पुद्गलपरिणामा-वस्थाया: शीतोष्णानुभवसम्पादनसमर्थाया: शीतोष्णाया: पुद्गलपरिणामावस्थाया इव पुद्गलादभिन्नत्वेनात्मनो नित्यमेवात्यन्तभिन्नायास्तन्निमित्ततथाविधानुभवस्य चात्मनोऽभिन्नत्वेन पुद्गलान्नित्यमेवात्यन्तभिन्नस्य ज्ञानात्परस्परविशेषनिर्ज्ञाने सति नानात्वविवेकाच्छीतोष्णरूपेणे-वात्मना परिणमितुमशक्येन रागद्वेषसुखदु:खादिरूपेणाज्ञानात्मना मनागप्यपरिणममानो ज्ञानस्य
ज्ञानत्वं प्रकटीकुर्वन् स्वयं ज्ञानमयीभूत: एषोऽहं जानाम्येव, रज्यते तु पुद्गल इत्यादिविधिना समग्रस्यापि रागादे: कर्मणो ज्ञानविरुद्धस्याकर्ता प्रतिभाति ॥९२-९३ ॥