समयसार - आत्मख्याति टीका - गाथा 71
From जैनकोष
कदास्या: कर्तृकर्मप्रवृत्तेर्निवृत्तिरिति चेत्
जइया इमेण जीवेण अप्पणो आसवाण य तहेव ।
णादं होदि विसेसंतरं तु तइया ण बंधो से ॥७१॥
यदानेन जीवेनात्मन: आस्रवाणां च तथैव ।
ज्ञातं भवति विशेषान्तरं तु तदा न बन्धस्तस्य ॥७१॥
इह किल स्वभावमात्रं वस्तु, स्वस्य भवनं तु स्वभाव: । तेन ज्ञानस्य भवनं खल्वात्मा, क्रोधादे-र्भवनं क्रोधादि: । अथ ज्ञानस्य यद्भवनं तन्न क्रोधादेरपि भवनं, यतो यथा ज्ञानभवने ज्ञानं भवद्वि-भाव्यते न तथा क्रोधादिरपि, यत्तु क्रोधादेर्भवनं तन्न ज्ञानस्यापि भवनं, यतो यथा क्रोधादिभवने क्रोधादयो भवन्तो विभाव्यन्ते न तथा ज्ञानमपि । इत्यात्मन: क्रोधादीनां च न खल्वेकवस्तुत्वम् ।
इत्येवमात्मात्मास्रवयोर्विशेषदर्शनेन यदा भेदं जानाति तदास्यानादिरप्यज्ञानजा कर्तृकर्मप्रवृत्ति-र्निवर्तते, तन्निवृत्तवज्ञाननिमित्तं पुद्गलद्रव्यकर्मबन्धोऽपि निवर्तते । तथा सति ज्ञानमात्रादेव बन्धनिरोध: सिध्येत् ॥७१॥