समयसार - आत्मख्याति टीका - गाथा 90 - 91
From जैनकोष
एदेसु य उवओगो तिविहो सुद्धो णिरंजणो भावो ।
जं सो करेदि भावं उवओगो तस्स सो कत्त ॥९०॥
जं कुणदि भावमादा कत्त सो होदि तस्स भावस्स ।
कम्मत्तं परिणमदे तम्हि सयं पोग्गलं दव्वं ॥९१॥
एतेषु चोपयोगस्त्रिविध: शुद्धो निरञ्जनो भाव: ।
यं स करोति भावमुपयोगस्तस्य स कर्ता ॥९०॥
यं करोति भावमात्मा कर्ता स भवति तस्य भावस्य ।
कर्मत्वं परिणमते तस्मिन् स्वयं पुद्गलं द्रव्यम् ॥९१॥
अथैवमयमनादिवस्त्वन्तरभूतमोहयुक्तत्वादात्मन्युत्प्लवमानेषु मिथ्यादर्शनाज्ञानाविरतिभावेषु
परिणामविकारेषु त्रिष्वेतेषु निमित्तभूतेषु परमार्थत: शुद्धनिरञ्जनानादिनिधनवस्तुसर्वस्वभूतचिन्मात्र- भावत्वेनैकेविधोऽप्यशुद्धसाञ्जनानेकभावत्वमापद्यमानस्त्रिविधो भूत्वा स्वयमज्ञानीभूत: कर्तृत्व-मुपढौकमानो विकारेण परिणम्य यं यं भावमात्मन: करोति तस्य तस्य किलोपयोग: कर्ता स्यात् ।
अथात्मनस्त्रिविधपरिणामविकारकर्तृत्वे सति पुद्गलद्रव्यं स्वत एव कर्मत्वेन परिणमतीत्याह
आत्मा ह्यात्मना तथापरिणमनेन यं भावं किल करोति तस्यायं कर्ता स्यात्, साधकवत् । तस्मिन्निमित्ते सति पुद्गलद्रव्यं कर्मत्वेन स्वयमेव परिणमते ।
तथाहि यथा साधक: किल तथाविधध्यानभावेनात्मना परिणमनमानो ध्यानस्य कर्ता स्यात्, तस्मिंस्तु ध्यानभावे सकलसाध्यभावानुकूलतया निमित्तमात्रीभूते सति साधकं कर्तारमन्तरेणापि स्वयमेव बाध्यन्ते विषव्याप्तयो, विडम्ब्यन्ते योषितो, ध्वंस्यन्ते बन्धा: ।
तथायमज्ञानादात्मा मिथ्यादर्शनादिभावेनात्मना परिणममानो मिथ्यादर्शनादिभावस्य कर्ता स्यात्, तस्मिंस्तु मिथ्यादर्शनादौ भावे स्वानुकूलतया निमित्तमात्रीभूते सत्यात्मानं कर्तारमन्तरेणापि पुद्गलद्रव्यं मोहनीयादिकर्मत्वेन स्वयमेव परिणमते ॥९०-९१ ॥